द्रवमूर्तिस्पर्शयोः श्यः

6-1-24 द्रवमूर्तिस्पर्शयोः श्यः सम्प्रसारणं निष्ठायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे च वर्तमानस्य <<श्यैङ् गतौ>> इत्यस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। <<श्योऽस्पर्शे>> ८.२.४७ इति निष्ठानत्वम्। स्पर्शे — शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्तिस्पर्शयोरिति किम् ? संश्यानो वृश्चिकः॥

Siddhanta Kaumudi

Up

द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्रवमूर्तिस्पर्शयोः श्यः>> - द्रवमूर्ति । 'श्यैङ् गतौ' इत्यस्य कृतात्वस्य 'श्य' इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते —

Padamanjari

Up

द्रवकाठिन्य इति। द्रवावस्ताया उतरावस्थाविशेषःउकाठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणःउस्पशः। शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह -गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ॥