6-1-222 चौ अन्तः
चावित्यञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्यान्त उदात्तो भवति। द॒धीचः॑ पश्य। द॒धीचा॑। द॒धीचे॑। म॒धूचः॑ पश्य। म॒धूचा॑। म॒धूचे॑। उदात्तनिवृत्तिस्वरापवादोऽयम्॥ चावतद्धित इति वक्त व्यम्॥ दा॒धी॒चः। मा॒धू॒चः। प्रत्ययस्वर एवात्र भवति॥
लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ।<!अतद्धित इति वाच्यम् !> (वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥
उदातनिवृत्तिस्वरापवादोऽयमिति। कृदुतरपदप्रकृतिस्वरेणोदातस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः ठचःऽ इति लोपः। चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदातः प्रत्ययः -दधीचः पश्येत्यादौ, तत्र यथोदातनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदातनिवृत्तिस्वरस्यायमपवादो भवति ॥