चायः की

6-1-21 चायः की सम्प्रसारणं

Kashika

Up

index: 6.1.21 sutra: चायः की


यगि इति वर्तते। चायृ पूजानिशामनयोः इत्येतस्य धातोः यगि परतः की इत्ययमादेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः।

Siddhanta Kaumudi

Up

index: 6.1.21 sutra: चायः की


चेकीयते ॥

Padamanjari

Up

index: 6.1.21 sutra: चायः की


कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि ठकृत्सार्वधातुकयोःऽ इति दीर्घस्य सिद्धत्वात्? तत्राह -दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन।'न लुमताङ्गस्य' ? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च'सम्प्रसारणाश्रयं च कार्यं बलवत्' इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ॥