6-1-218 चङि अन्यतरस्याम् उदात्तः उपोत्तमं
चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति। मा हि ची॒क॒रता॑म् मा हि ची॒कर॑ताम्। <<न माङ्योगे>> ६.४.७४ इत्यटि प्रतिषिद्धे <<हि च>> ८.१.३४ इति निघातेऽदुपदेशादिति लसार्वधातुकानुदात्तत्वे ६.१.१८६ कृते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति। उपोत्तमग्रहणाद् द्व्यचो न भवति। मा हि द॒धत्॥
चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥