6-1-217 उपोत्तमं रिति उदात्तः
रिति उपोत्तममुदात्तः
रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमः स्वरः नित्यमुदात्तः भवति
The second last स्वर of the प्रकृति-प्रत्यय-समुदाय that ends in a रित् प्रत्यय becomes उदात्त.
रिदन्तस्योपोत्तममुदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमम्, तस्य समीपे यत् तदुपोत्तमम्। क॒र॒णीय॑म्। ह॒र॒णीय॑म्। प॒टु॒जा॒तीयः॑। मृ॒दु॒जा॒तीयः॑। प्रत्ययस्वरापवादोऽयम्॥
रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥
यस्मिन् प्रत्यये रेफः इत्संज्ञकः अस्ति, सः प्रत्ययः 'रित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः रित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य उपोत्तमः स्वरः उदात्तसंज्ञकः भवति । किम् नाम उपोत्तमः ? शब्दस्य अन्तिमः स्वरः 'उत्तमः' नाम्ना ज्ञायते । तस्मात् यः स्वरः पूर्वः, सः उपोत्तमः । यथा, 'साधुम्' अस्मिन् शब्दे धकारोत्तरः उकारः उत्तमसंज्ञकः स्वरः अस्ति, तथा सकारोत्तरः आकारः उपोत्तमः स्वरः अस्ति । रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमस्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते । यथा - 1. मृदु + जातीयर् → मृ॒दु॒जातीय॑ । अत्र 'जातीयर्' अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति तकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते । 2. कृ + अनीयर् → क॒र॒णीय॑ । अत्र 'अनीयर्' अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति नकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।