त्यागरागहासकुहश्वठक्रथानाम्

6-1-216 त्यागरागहासकुहश्वठक्रथानाम् उदात्तः आदि विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषादिरुदात्तो भवति। त्यागः॑, त्या॒गः। रागः॑, रा॒गः। हासः॑, हा॒सः। एते घञन्तास्तेषां पक्षे <<कर्षात्वतो घञोऽन्त उदात्तः>> ६.१.१५९ इत्युदात्तत्वमेव भवति। कुहः॑, कु॒हः। श्वठः॑, श्व॒ठः। क्रथः॑, क्र॒थः। एते पचाद्यजन्ताः॥

Siddhanta Kaumudi

Up

आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'कुह विस्मापने' ,'श्वठ क्रथ भाषणो' चौरादिकावदन्तौ। निधाकतस्यैवायमपवादो युक्तः ? नैतदेवम्; यद्ययं निघातस्यापवादः स्यात्, तत्रैवायं ब्रूयात् - ठनुदातं पदमेकवर्जम्, न हि स्वार्थम् ॥