विभाषा वेण्विन्धानयोः

6-1-215 विभाषा वेण्विन्धानयोः उदात्तः आदि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वेणु इन्धान इत्येतयोर्विभाषा आदिरुदात्तो भवति। वेणुः॑, वे॒णुः। इन्धा॑नः, इ॒न्धा॒नः, इ॒न्धानः॑। वेणुशब्दोऽयम् <<अजिवृरीभ्यो निच्च>> (प० उ० ३.३८) इति णुप्रत्ययान्तो नित्त्वाद् नित्यमाद्युदात्तः प्राप्तः। इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वादन्तोदात्तः। अथ शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृत उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवमिन्धाने सर्वथाप्राप्तमाद्युदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुरित्युपमानं यदा संज्ञा भवति, तदा <<संज्ञायामुपमानम्>> ६.१.२०४ इति नित्यमाद्युदात्तत्वमिष्यते॥

Siddhanta Kaumudi

Up

आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up