6-1-214 ईडवन्दवृशंसदुहां ण्यतः उदात्तः आदि
ईड वन्द वृ शंस दुह् इत्येतेषां यो ण्यत् तदन्तस्यादिरुदात्तो भवति। ईड्य॑म्। वन्द्य॑म्। वार्य॑म्। शंस्य॑म्। दोह्या॑ धेनुः। द्व्यनुबन्धकत्वाद् ण्यतो यद्ग्रहणेन ग्रहणं नास्तीति <<तित् स्वरितम्>> ६.१.१८५ इत्येतत् प्राप्तम्। वार्यमिति <<वृङ् संभक्त ौ>> इत्यस्यायं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणमिष्यते॥
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ॥
ठीह स्तुतौऽ,'वदि अभिवादनस्तुत्योः' ,'वृङ्सम्भक्तौ' ,'शंसु स्तुतौ' ,'दुह प्रपूरणे' । कथं वार्य इत्यत्र ण्यत्, यावता ठेतिस्तुशासुऽ इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह -वार्य इत्यादि। अथ वृङेऽपि क्यबेव कस्मान्न भवति ? अत आह -क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ॥