6-1-212 ङयि च उदात्तः आदि युष्मदस्मदोः
युष्मदस्मदोरिति वर्तते, आदिरुदात्त इति च। ङे इत्येतस्मिंश्च परतो युष्मदस्मदोरादिरुदात्तो भवति। तुभ्य॑म् (ऋ० २.३६.१)। मह्य॑म् (ऋ० १०.१२८.२)। पृथग्योगकरणं यथासंख्यशङ्कानिवृत्त्यर्थम्॥
तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ॥
तुभ्यम्, मह्यमिति।'णेó प्रथमयोरम्' ,'तुभ्यमह्याइ ङ्यि' । अथ किमर्थो योगविभागः, न'युष्मदस्मदोर्णेóङ्सोः' इत्येवोच्येत, एवं हि चकारो न कर्तव्यो भवति ? अत आह -पृथग्योगकरणमिति। आशङ्काग्रहणेनास्वरितत्वादेव यथासंख्यं न भविष्यतीति शक्यं वक्तुमिति दर्शयति। अत्रापि पूर्ववद्विभक्तिस्वरः प्राप्तः ॥