6-1-211 युष्मदस्मदोः ङसि उदात्तः आदि
युष्मदस्मदी मदिक्प्रत्ययान्ते अन्तोदात्ते, तयोर्ङसि परत आदिरुदात्तो भवति। तव॑ स्वम्। मम॑ स्वम् ॥
आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥
'युष्यसिब्यां मदिक्' , युषिः सौत्रो धातुः। तव, ममेति।'युष्मदस्मद्भ्यां ङ्सो' स्ऽ,'तवममौ ङसि' इति मपर्यन्तस्य तवममादेशः, शेषे लोपः, ठतो गुणेऽ इति पररूपत्वम्, ठेकादेश उदातेनोदातःऽ इति विभक्तेरुदातत्वे प्राप्ते इदमुच्यते ॥