6-1-210 नित्यं मन्त्रे उदात्तः आदि जुष्टार्पिते
जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः। जुष्टं॑ देवानाम्। अर्पि॑तं पितृणाम्। पूर्वेणात्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेवानुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रेऽपीच्छन्ति। अन्तोदात्तोऽपि ह्ययं मन्त्रे पठ्यते। तस्मि॑न्त्सा॒कं त्रि॑श॒ता न शं॒कवो॑ऽर्पि॒ताः (ऋ० १.१६४.४८) इति॥
एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ॥
आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणमुतरार्थम् ॥