6-1-209 जुष्टार्पिते च छन्दसि उदात्तः आदि विभाषा
जुष्ट अर्पित इत्येते शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः॑, जु॒ष्टः। अर्पि॑तः, अ॒र्पि॒तः। छन्दसीति किम् ? भाषायां प्रत्ययस्वरेणान्तोदात्तावेतौ॥
आद्युदात्ते वा स्तः ॥
जुष्ट इति।'जुषी प्रीतिसेवनयोः' ,'श्वीदिते निष्ठायाम्' इतीट्प्रतिषेधः। अपित इति। ठतिर्ह्रीऽ अर्तेर्णिच्, अर्त्यादिना पुक् ॥