6-1-204 सञ्ज्ञायाम् उपमानम् उदात्तः आदि
index: 6.1.204 sutra: संज्ञायामुपमानम्
उपमानशब्दः संज्ञायामाद्युदातो भवति। चञ्चा। वध्रिका। खरकुटी। दासी। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र इवे प्रतिकृतौ 5.3.96 इति यः कन्, तस्य लुम्मनुष्ये 5.3.98 इति लुप्। यद्येवं किमर्थम् इदमुच्यते प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम्? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवतीति। तथा च पूर्वत्र उदाहृतम्। संज्ञायाम् इति किम्? अग्निर्माणवकः। उपमानम् इति किम्? देवदत्तः।
index: 6.1.204 sutra: संज्ञायामुपमानम्
उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ।
index: 6.1.204 sutra: संज्ञायामुपमानम्
यद्येवमिति। यद्यत्र कनो लुबित्यर्थः। एतदेवेत्यादि। ज्ञापकाभावे तु सप्तमीनिर्देशेऽपि प्रत्ययलक्षणप्रतिषेधो न स्यात्,'स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः' इति ज्ञापनेन तदन्तस्य कार्यित्वात्। क्वचिदिति। वचनात्क्वचिद्भवत्येव, यथा -'सर्वस्य सुपि' इत्यत्र ॥