6-1-203 वृषादीनां च उदात्तः आदि
वृष इत्येवमादीनामादिरुदात्तो भवति। वृषः॑। जनः॑। ज्वरः॑। ग्रहः॑। हयः॑। गयः॑। एते सर्वे पचाद्यच्प्रत्ययान्ताः। गय इत्यत्र गायतेर्निपातनादेत्वम्। नयः॑। तयः॑। अयः॑। अंशः॑। वेदः॑। अशः॑। दवः॑। एतेऽपि तथैवाच्प्रत्ययान्ताः। सूदः॑। इगुपधात् ३.१.१३५ इति कप्रत्ययान्तः। गुहा॑ भिदादिरङ्प्रत्ययान्तः ३.३.१०४। शमरणौ संज्ञायां संमतौ भावकर्मणोः (ग० सू० १७३)। शमो॑ भावे, रणः॑ कर्मण्यजन्तावेतौ निपातनाद् भावकर्मणोर्भवतः। मन्त्रः॑ पचाद्यजन्तः। शान्तिः॑ इति क्तिजन्तः। कामः॑। यामः॑। घञन्तावेतौ। आरा॑ धारा॑ कारा॑ भिदादयः। वहो॑ गोचरादिषु घप्रत्ययान्तः। कल्पः॑ अजन्तः। पादो॑ घञन्तः। तत्र क्वचित् प्रत्ययस्वरः प्राप्तः, क्वचित् <<कर्षात्वतो घञोऽन्त उदात्तः>> ६.१.१५९ इति। वृषादिराकृतिगणः। अविहितमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम्॥
आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती (वाजे॑भिर्वा॒जिनी॑वती) । इन्द्रं वाणीः (इन्द्रं(आ) वाणीः॑) ॥
'वृषु सेचने' ,'जनी प्रादुर्भावे' ,'ज्वर रोगे' ,'हि गतौ' ,'कै गै रै शब्दे' । एते सर्वेऽच्प्रत्ययान्ता इति। पचादित्वात्। बाहुल्याच्चेदमुक्तम्। वृषः -इत्यत्रेगुपधलक्षणः कः।'णीञ् प्रापणे' ,'तायृ सन्तानपालनयोः' । केचितय इति पठन्ति, ठय पय तय गतौऽ, क्वचिच्चयशब्दः पठ।ल्ते, स चिनोतेर्द्रष्टव्यः। 'इण् गतौ' , अंस समाधानेऽ,'विद ज्ञाने' ,'षूद निरासे' ,'दु दाहे' ,।'वद व्यक्तायां वाचि' , ठत सातत्यगमनेऽ। केचिदेतौ न पठन्ति।'गुहूसंवरणे' ,'शम उपशमे' , ठण रण शब्देऽ। सम्मतौ भावकर्मणोरिति। शमरणाविति वर्तते, सम्मतावर्थे शमरणौ भावकर्मणोर्यथाक्रममाद्यौदातौ भवतः।'मात्रि गुप्तभाषणे' । शान्तिरिति। शमेः क्तिचि'कमु कान्तौ' ,'यमु उपरमे' , केचिद्यमशब्दं न पठन्ति। ठृ शब्दे गतौऽ,'घृञ् धारणे' ,'कृ विक्षेपे' , भिदादिपु निपातनाद्वृद्धिः।'वह प्रापणे' ,'कृपू सामर्थ्ये' ,'पद गतौ' ॥