6-1-202 जयः करणम् उदात्तः आदि
जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेनेति जयः। <<पुंसि संज्ञायां घः प्रायेण>> ३.३.११८ इति घस्तस्य प्रत्ययस्वरः प्राप्तः। जयोऽश्वः॑। करणमिति किम् ? ज॒यो वर्तते ब्राह्मणानाम्। अत्रापि <<एरच्>> ३.३.५६ इत्ययमजन्तः॥
करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥