6-1-201 क्षयः निवासे उदात्तः आदि
क्षयशब्दो निवासेऽभिधेय आद्युदात्तो भवति। क्षियन्ति निवसन्त्यस्मिन्निति क्षयः। <<पुंसि संज्ञायां घः प्रायेण>> ३.३.११८ इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः। क्षये॑ (ऋ० १०.११८.१) जागृहि प्रपश्यन्। निवास इति किम् ? क्ष॒यो वर्तते दस्यूनाम्। <<एरच्>> ३.३.५६ इत्ययमजन्तः॥
आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ॥
'क्षि निघासगत्योः' -इत्यास्माद् अधिकरणे घः। क्षयो दस्यूनामिति। क्षयेरच्, कर्तरि षष्ठी ॥