6-1-200 अन्तः च तवै युगपत् उदात्तः आदि
तवैप्रत्ययान्तस्यान्तश्चशब्दादादिश्च युगपदुदात्तौ भवतः। कर्त॒वै। हर्त॒वै। प्रत्ययाद्युदात्तत्वापवादः। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। एकवर्जमिति वचनाद्यौगपद्यं न स्यात्॥
तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ॥
कर्तेवै इति।'कृत्यार्थे तवलैकेन्केन्यत्वनः' इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृतये यत्नः क्रियते ? इत्याह -एकवर्जमिति हीत्यादि ॥