अचः कर्तृयकि

6-1-195 अचः कर्तृयकि उदात्तः आदिः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपदेश इति वर्तते। अजन्ता ये उपदेशे धातवस्तेषां कर्तृयक्यन्यतरस्यामादिरुदात्तो भवति। लूय॑ते केदारः स्वयमेव, लू॒यते॑ केदारः स्वयमेव। स्तीर्य॑ते केदारः स्वयमेव, स्ती॒र्यते॑ केदारः स्वयमेव। यदाद्युदात्तत्वं न भवति, तदा लसार्वधातुकनिघाते कृ ते यक एव स्वरो भवति। जनादीनामुपदेश एवात्वं द्रष्टव्यम्। तत्राप्ययं स्वर इष्यते। जाय॑ते, जा॒यते॑ स्वयमेव। साय॑ते, सा॒यते॑ स्वयमेव। खाय॑ते,खा॒यते॑ स्वयमेव। अच इति किम् ? भि॒द्यते॑ स्वयमेव। कर्तृग्रहणं किम् ? लू॒यते॑ केदारो देवदत्तेन॥

Siddhanta Kaumudi

Up

उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कर्तृवाचिनि सार्वधातुके विहितो यक् कर्तृयक्। उपदेश इति वर्तत इति। ठदुपदेशात्ऽ इतियत्र यदुपदेशग्रहणं तदुपसमस्तमपि स्वरितत्वप्रतिज्ञानादिह सम्बद्ध्यते, तच्चार्थात्सप्तम्यन्तं सम्पद्यत इति मत्वोक्तम्, न तु सप्तम्यन्तमुपदेशग्रहणं प्रकृतमस्ति। यदि तूपदेशग्रहणं नानुवर्तेत, कार्यत इत्यादौ रपरत्वे सति न स्यात्, तस्मादुपदेश इत्यनुवर्त्यम्। यद्येवम्, जायते स्वयमेवेत्यादौ न स्यात्,'ये विभाषा' इत्यात्वे सत्युतरकालमजन्ता जनादयः, न तूपदेशे ? इत्यत आह -जनादीनामिति।'ये विभाषा' इत्यत्र ठनुदातोपदेशेऽ इत्यत उपदेशग्रहणमनुवर्तते, सा च विषयसप्तमीति उपदेशएव जनादीनामात्वं भवति। जायते स्वयमेवेति। अन्तर्भावितण्यर्थो जनिः कर्मकर्तृविषयः। दृश्यते चान्तर्भावितण्यर्थस्य प्रयोगः, यथा -एकं द्वादशधा जज्ञे इति ॥