6-1-191 सर्वस्य सुपि उदात्तः सार्वधातुक् अभ्यस्तानाम् आदिः
सर्वशब्दस्य सुपि परत आदिरुदात्तो भवति। सर्वः॑, सर्वौ॑, सर्वे॑। सुपीति किम् ? स॒र्वत॑रः। स॒र्वत॑मः। प्रत्ययलक्षणेनाप्ययं स्वर इष्यते — सर्व॑स्तोमः (तै० सं० ५.४.१२.३) इति॥ सर्वस्वरोऽनकच्कस्येति वक्त व्यम्॥ स॒र्व॒कः। चित्स्वरेणान्तोदात्तो भवति ॥
सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ॥
सर्वशब्द उणादिषु अन्तोदातो निपातितः, सर्वस्य विकारः सार्व इत्यनुदातादिलक्षणोऽञ् यथा स्यादिति। प्रत्ययलक्षणेनापीत्यादि।'न लुमताङ्गस्य' इत्यत्रैतदुपपादितम्। सर्वस्वरोऽनकच्कस्येति। भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ आद्यौदातस्यापवादोऽयम्। जागरामिति सौत्रौ निर्देशः। अत्र मदिर्दिवादिः, दरिद्राजाग्रावदादी, अन्ये जुहोत्यादयः। पञ्चमे लकार इति। लस्येत्वत्र दर्शितक्रमे पञ्चमकलकारो लेट्। लेट्शब्दस्तु वृत्तिकारदेशे जुगुप्सितः, यथाऽत्र द्रविहदेशे नीवीशब्दः। दधनदिति। ठितश्च लोपः परस्मैपदेषुऽ,'लेटो' डाटौऽ इत्यट्। दरिद्रतीति। अत्र परत्वादाकारलोपे कृते इकारस्योदातत्वप्रसङ्गः। अथ प्रत्ययग्रहणं किमर्थम्, यावता भ्यादिभ्यः परः पित्प्रत्यय एव सम्भवति, ननु चायमस्ति -ठाडुतमस्य पिच्चऽ, बिभयाति, अत्रापि लोडुतमस्यैव पित्वं विधीयते, न त्वाट् इति, आटसहितो लोडुतमः पिद्भवति स च प्रत्यय एव। अत एव लोङदेशात्पितः पूर्वमाड् भवति, प्रत्ययातु पूर्वो न भवति, आटसहितस्याप्रत्ययत्वादिति तन्निवृत्यर्थं प्रत्ययग्रहणमिति न वाच्यम्, कथण्? यथैव प्रत्ययत्वमाट्सहितस्य , तथा पित्तवमपि तस्यैव। इहं तर्हि प्रयोजनम् - प्रत्ययात्पूर्वस्याच उदातत्वं यथा स्यात्सङ्घातस्य मा भूदिति, एतदेव ज्ञापकम् -स्वरविधौ सङ्घातः कार्यीति, तेन'तास्यनुदातेत्' इति निघातः'पचमानः' इत्यादौ चित्स्वरं परत्वाद्बाधत इति यदुक्तं तदुपपन्नं भवति। अथ पूर्वग्रहणं किमर्थम्, प्रत्यये पितीति वक्तव्यम्, तत्र'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति पूर्वस्यैव भविष्यति ? इदं तर्हि प्रयेजनम् -पिति पूर्वं कार्यभाग्यथा स्यात्, पिदन्तं मा भूदिति। कथं पुनः सप्तमीनिर्द्देशे तदन्तस्य प्रसङ्ग? एतदेव ज्ञायति -स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति । किं सिद्धं भवति ? उपोतमं रिति, रित्प्रत्यययान्ते उपोतममुदातं भवति, न तु रिति परतः पूर्वस्य;'चङ्यन्यतरस्याम्' चङ्न्तस्य। यद्येवम्,'चतुरः शसि' इति शसन्तस्य प्राप्नोति, शस्ग्रहणसामर्थ्यान्न भविष्यति। यदि हि'चतुरः शसि' इत्यनेन शस उदातत्वमिष्ट्ंअ स्यात्, ततः ठूडिदम्ऽ इत्यस्यानन्तरम्'चतुरश्च' इति ब्रूयात् तत्रासर्वनामस्थानग्रहणानुवृत्या'षट्त्रिचतुर्भ्यो हलादिः' इति हलादेरुदातत्वविधानाच्च शस एव भविष्यति ॥