अनुदात्ते च

6-1-190 अनुदात्ते च उदात्तः सार्वधातुक् अभ्यस्तानाम् आदिः

Kashika

Up

index: 6.1.190 sutra: अनुदात्ते च


अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानामादिरुदात्तो भवति। अनजाद्यर्थ आरम्भः। ददाति। जहाति। दधाति। जहीते। मिमीते। अनुदात्ते इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः। मा हि स्म दधात्। दधात्यत्र।

Siddhanta Kaumudi

Up

index: 6.1.190 sutra: अनुदात्ते च


अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ।

Padamanjari

Up

index: 6.1.190 sutra: अनुदात्ते च


अनजाद्यर्थेमिदम्। जिहीते, मिमीत इति। ठी हल्यघोःऽ, ङ्त्वाल्लिसार्वधातुकानुदातत्वम्। ठविद्यमानोदातेऽ इति वदता ठनुदात इति बहुव्रीहिनिर्देशोऽयम्ऽ इत्युक्तम्। तत्र प्रयोजनमाह -अनुदात इति। बहुव्रीहिनिर्देश इत्यादि। न विद्यते उदातो यस्मिन्नित्यनुदातः। मा हि स्म् दधादिति। शास्त्रीयेऽनुदाते गृह्यमाणे नित्यत्वादन्तरङ्गत्वाद्वा इकारलोपे कृतेऽचोऽनुदातस्य परस्याभावादाद्यौदातत्वं न स्यात्, बहुव्रीहौ विज्ञाते तु भवति। दधात्यत्रेति। अत्र यणादेशस्य बहिरङ्गत्वेनासिद्धत्वादपि स्वरः सिद्धः ॥