6-1-188 स्वपादिहिंसाम् अचि अनिटि उदात्तः सार्वधातुक् आदिः अन्यतरस्याम्
लसार्वधातुकग्रहणं यदनुवर्तते, तदच्यनिटीति संबन्धादिह सप्तम्यन्तमुपजायते। स्वपादिरा वृत्करणात्। स्वपादीनां हिंसेश्चाजादावनिटि लसार्वधातुके परतोऽन्यतरस्यामादिरुदात्तो भवति। स्वप॑न्ति, स्वप॒न्ति॑। श्वस॑न्ति, श्व॒सन्ति॑। हिंसेः खल्वपि — हिंस॑न्ति, हिं॒सन्ति॑। प्रत्ययस्वरेण पक्षे मध्योदात्तः। अचीति किम् ? स्व॒प्यात्। हिं॒स्यात्। अनिटीति किम् ? स्व॒पि॒तः। श्व॒सि॒तः। ङित्यजादावयं विधिरिष्यते। इह न भवति — स्वपा॑नि। हि॒नसा॑नि॥
स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ॥