6-1-187 आदिः सिचः अन्यतरस्याम् उदात्तः नाम् अन्यतरस्याम् सार्वधातुक्
उदात्त इति वर्तते। सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति। मा हि कार्ष्टा॑म्, मा हि का॒र्ष्टाम्। एकोऽत्राद्युदात्तः, अपरोऽन्तोदात्तः। मा हि लावि॑ष्टाम्, मा हि ला॒विष्टा॑म्। एकोऽत्राद्युदात्तः, अपरो मध्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि बाध्यते॥ सिच आद्युदात्तत्वेऽनिटः पित पक्ष उदात्तत्वं वक्त व्यम् ॥ मा हि का॒र्षम्, मा हि कार्ष॑म्। अनिट इति किम् ? मा हि ला॒विष॑म् । मध्योदात्त एवाद्युदात्ताभावपक्षे भवति॥
सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ॥
मा हि कार्ष्टामिति। हेः, माङ्श्च प्रयोगे पूर्वमेव प्रयोजनमुक्तम्। अपरो मध्योदात इति। ननु न वलादिरिह प्रत्ययः, इडागमः, आगमाश्चानुदाता भवन्ति, तस्मादिहाप्यन्तोदातत्वेन भवितव्यम् ? अत आह - सिचश्चित्करणादिति। अनिटः पित इति। अनिटः सिचः परः पित्पक्षे उदातो भवति, पक्षे त्वनुदातः, तेन मा हि कार्षमिति तिङ्न्तं पक्षे आद्यौदातम्, पक्षे त्वन्तोदातम्; अन्यथा धातुस्वरेण नित्यमाद्यौदातं स्यात्। मध्योदात एवेति। सिचः स्वरेण, एवकारेण न त्वन्तोदात इति दर्शयति ॥