दिवो झल्

6-1-183 दिवः झल् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दिवः परा झलादिर्विभक्ति र्नोदात्ता भवति। द्युभ्या॑म्। द्युभिः॑। <<सावेकाचः०>> ६.१.१६८ इति <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> ६.१.१७१ इति वा प्राप्तिः प्रतिषिध्यते। झलीति किम्? दि॒वा॥

Siddhanta Kaumudi

Up

दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः (द्युभि॑र॒क्तुभिः॑) । झलिति किम् । उपत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दि॒वेदि॑वे) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

झलादिरिति। कथं पुनरसति सप्तमीनिर्देशे तदादिविधिर्भवति; केवलझलात्मिकाया विभक्तेरभावात्, अस्तु तर्हि तदन्तविधिः, का पुनर्झलन्ता विभक्ति, शसादिः सकारान्ता ? एवं तर्हि'षट्त्रिचतुर्भ्या हलादिः' इत्यत आदिग्रहणमनुवर्तते, दिवः परा विभक्तिर्नोदाता भवति, कीदृशी ? यस्या झलादिरिति। अयं योगः शक्योऽवक्तुम्। कथम् ? एवं वक्ष्यामि - ठष्टनो दीर्घात्, दिवोझलादिः, शतरनुमो नदी चऽ इति, ठूडिदम्ऽ इत्यादौ च दिवो ग्रहणं न करिष्यमि ? एवमपि'नृ चान्यतरस्याम्' इत्युतरसूत्रे तत्र झल्ग्रहणं कर्तव्यम्,'नदि च' इति चकारश्च क्रियत इति नास्ति लाघवे विशेषः ॥