न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः

6-1-182 न गोश्वन्साववर्णराडङ्क्रङ्कृद्भ्यः अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गो श्वन् साववर्णः सौ प्रथमैकवचने यदवर्णान्तं राड् अङ् क्रुङ् कृद् इत्येतेभ्यो यदुक्तं तद् न भवति। गवा॑। गवे॑। गोभ्या॑मिति। <<सावेकाचस्तृतीयादिर्विभक्ति ः>> ६.१.१६८ इति प्राप्तिः प्रतिषिध्यते। सु॒गुना॑।सु॒गवे॑। सु॒गुभ्या॑म्। <<अन्तोदात्तादुत्तरपदात्०>> ६.१.१६९ इति प्राप्तिः। श्वन् — शुना॑। शुने॑। श्वभ्या॑म्। प॒र॒म॒शुना॑। प॒र॒म॒शुने॑। प॒र॒म॒श्वभ्या॑म्। पूर्ववत् प्राप्तिः। साववर्णः — सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्। येभ्यः॑। तेभ्यः॑। केभ्यः॑। राट् — राजतिः क्विबन्तः, राजा॑। प॒र॒म॒राजः॑। अङ् — अञ्चतिः क्विन्नन्तस्तस्य सनकारस्य ग्रहणं विषया — वधारणार्थम्, यत्रास्य नलोपो नास्ति तत्र प्रतिषेधो यथा स्यात्। <<नाञ्चेः पूजायाम्>> ६.४.३० इति प्रतिषिध्यते नलोपः। प्राञ्चा॑। प्राङ्भ्या॑म् । नलोपविषये तु भवत्येव विभक्ते रुदात्तत्वम्। प्रा॒चा। प्रा॒चे। प्रा॒ग्भ्याम्। क्रुङ् क्विन्नन्त एव। क्रुञ्चा॑। प॒र॒म॒क्रुञ्चा॑। कृत् — करोतिः कृतिर्वा क्विबन्तः। कृता॑ प॒र॒म॒कृता॑॥

Siddhanta Kaumudi

Up

एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up