6-1-181 विभाषा भाषायाम् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम् षट्त्रिचतुर्भ्यः झलि उपोत्तमम्
षट्त्रिचतुर्भ्यो या झलादिर्विभक्ति स्तदन्ते पद उपोत्तममुदात्तं भवति विभाषा भाषायां विषये। प॒ञ्चभिः॑, प॒ञ्च॒भिः। स॒प्तभिः॑, स॒प्त॒भिः। ति॒सृभिः॑ ति॒सृ॒भिः। च॒तुर्भिः॑, च॒तु॒र्भिः॥
उक्तविषये ॥