6-1-180 झलि उपोत्तमम् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम् षट्त्रिचतुर्भ्यः
index: 6.1.180 sutra: झल्युपोत्तमम्
षट्त्रिचतुर्भ्यो या ज्ञालादिर्विभक्तिः तदन्ते पदे उपोत्तमं उदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपे च यत् तदुपोत्तमम्। पञ्चभिः तपस् तपति। सप्तभिः पराञ् जयति। तिसृभिश्च वहसे त्रिंशता। चत्रुभिः। ज्ञलि इति किम्? पञ्चानाम्। सप्तानाम्। उपोत्तमम् इति किम्? षड्भिः। षड्भ्यः।
index: 6.1.180 sutra: झल्युपोत्तमम्
षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः (अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑) । नवभिर्वाजैर्नवती (न॒वभि॑र्वाजै॑र्नव॒ती) । च (च॑) । सप्तम्भोजायमानः (स॒प्तम्भो॒जाय॑मानः) । आदशभिर्विवस्वतः (आद॒शभि॑र्वि॒वस्व॑तः) । उपोत्तमं किम् । आषड्भिर्हूयमानः (आष॒ड्भिर्हू॒यमानः) । विश्वैर्दवैस्त्रिभिः (विश्वैर्दे॒वैस्त्रि॒भिः॑) । झलि किम् । नवानां नवतीनाम् (न॒वा॒नां न॑वती॒नाम्) ।
index: 6.1.180 sutra: झल्युपोत्तमम्
झलादौ विभक्तौ परतः षट्त्रिचतुर्णां त्रिप्रभृत्यक्षराभावात् झलादिविभक्तयन्तस्य पदस्य ग्रहणम्, यदाह -विभक्त्यन्ते पदे उपोतममुदातम्भवतीति ॥ न गोस्वन्साववर्णराडङ्क्रुड्कृद्भ्यः ॥'सौ' इति यदि सप्तमीबहुचनस्य ग्रहणं स्यात्, तेभ्यः, केभ्य इत्यत्र न स्यात्, तत्किंशब्दयोः सप्तमीबहुवचने परतस्त्यदाद्यत्वे कृते'बहुवचने झल्येत्' इत्येत्वविधानात्; ताभिर्याभिरित्यादावेव स्यात्, तासुयास्वित्यत्रावर्णान्तत्वात्। तस्मात्प्रथमैकवचनस्य ग्रहणामित्याह -सौ प्रथमैकवचन इति। अनन्तरस्य प्रतिषेध्यस्यासम्भवात्सर्वस्यैव षाष्ठिकस्वरस्य प्रतिषेधो विज्ञायते इत्याह-इत्येभ्यो यदुक्तं तन्न भवतीति। एवं च वृक्षवानित्यादौ'ह्रस्वनुड्भ्यां मतुप्' इत्यपि प्रतिषेधो भवति, उदातनिवृत्तिस्वरस्य प्रतिषेधो नेष्यते। सुगुनेति । बहुव्रीहौ'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः,'नञ्सुभ्याम्' इत्यन्तोदातत्वम् । शुनेति। ननु च नलोपे कृते साववर्णान्तमेतत् ? न ; स्वरविधौ नलोपस्यासिद्धत्वात्। न चायं स्वरविधिः, स्वरप्रतिषेधोऽयम् ? एवं तर्हि शुनः प्रतिषेधं कुर्वन्नेतज्ज्ञापयति -अस्मिन्प्रतिषेदे नलोपोऽसिद्धो भवतीति। तेन नृशब्दात्सप्तम्येकवचने नरीत्यत्र'सावेकाचः' इति विभक्तेरुदातत्वं भवति, पितृमानित्यादौ'ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदातत्वं भवति, अन्यथा'साववर्ण' इति प्रतिषेधः स्यात्। प्राचेति। पूर्ववन्नलोपदीर्घादि। क्रुञ्चेति।'कुञ्च क्रुञ्च कौटिल्याल्पीभावयोः' , ठृत्विक्ऽ इत्यादिना क्विन्, तत्रैव सूत्रे क्रुञ्चेति निपातनान्नलोपाभावः। कृतिर्वेति।'कृती छेदने' ॥