स्वापेश्चङि

6-1-18 स्वापेः चङि सम्प्रसारणं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्वापेरिति स्वपेर्ण्यन्तस्य ग्रहणम्, तस्य चङि परतः संप्रसारणं भवति। असूषुपत्, असूषुपताम्, असूषुपन्। द्विर्वचनात् पूर्वमत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधाया ह्रस्वत्वम् ७.४.१ ततो द्विर्वचनम्, <<दीर्घो लघोः>> ७.४.९४ इति दीर्घत्वम्। चङीति किम्? ॒स्वाप्यते। स्वापितः। कितीति निवृत्तम्, ङितीति केवलमिहानुवर्तत इत्येतद् दुर्विज्ञानम्॥

Siddhanta Kaumudi

Up

ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्वापेश्चङि>> - स्वापेश्चङि । संप्रसारणमिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । असू षुपदिति । संप्रसारणं तदाश्रयं चकार्यं बलव॑दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः ।

Padamanjari

Up

स्वापेर्ण्यन्तस्य ग्रहणमिति। आप्रनोतेस्तु सुपूर्वस्य ग्रहणं न अण्यन्तस्य; चङेऽसम्भवात्। ण्यन्तस्यापि न भवति;'धातोः' इत्यधिकारात्। स्वाप्यत इति। कर्मणि लट्, णिलोपः। स्वापित इति।'निष्ठायां सेटि' इति णिलापः ननु च'ग्रहिज्या' इत्यादिसूत्रान्ङ्तीत्यिनुवर्तिष्यते, न चान्यः स्वापेर्ङ्दिस्ति, यङ् तावदनेकाच्त्वन्नास्ति, अपित्सार्वधातुकं तु विकरणैर्व्यवहितम्, अङदयस्त्वविहिता एव? तत्राह - ङ्तीइति केवलमित्यादि। ननु कितीत्येतच्चानुकृष्ट्ंअ पूर्वसूत्र इति नेहानुवर्तिष्यते, किमर्थं दुर्ज्ञानं ङ्द्ग्रिहणम्? ङ्द्ग्रिहणमपि तर्हि पूर्वसूत्रे नानुवर्तते; लिटो ङितोऽसम्भवादिति तस्येहानुवृत्तिर्दुर्विज्ञाना ॥