6-1-17 लिटि अभ्यासस्य उभयेषाम् सम्प्रसारणं वचिस्वपियजादीनां ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां
उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य संप्रसारणं भवति। वचि — उवाच। उवचिथ। स्वप् — सुष्वाप। सुष्वपिथ। यज — इयाज। इयजिथ। डुवप् — उवाप। उवपिथ। ग्रह्यादीनाम् — तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या — जिज्यौ। जिज्यिथ। वयि — उवाय। उवयिथ। व्यध — विव्याध। विव्यधिथ। वश — उवाश। उवशिथ। व्यच — विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे नास्ति विशेषः। योगारम्भे तु सति यदि संप्रसारणमकृत्वा हलादिशेषेण ७.४.६० रेफो निवर्त्यते, तदा वकारस्य संप्रसारणं प्राप्नोति। अथ रेफस्य संप्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानीमुरदत्वस्य स्थानिवद्भावाद् <<न संप्रसारणे संप्रसारणम्>> ६.१.३७ इति प्रतिषेधो भवतीत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छतिभृज्जत्योरविशेषः। अकिदर्थं चेदमभ्यासस्य संप्रसारणं विधीयते। किति हि परत्वाद् धातोः संप्रसारणे कृते <<पुनः प्रसङ्गविज्ञानाद्०>> द्विवर्चनम् — ऊचतुः, ऊचुरिति। अधिकारादेवोभयेषां ग्रहणे सिद्धे पुनरुभयेषामिति वचनं हलादिशेषम् ७.४.६० अपि बाधित्वा संप्रसारणमेव यथा स्यादिति। विव्याध॥
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥
<<लिट्यभ्यासस्योभयेषाम्>> - णलि द्वित्वादौ तु ययाज् अ इति स्थिते — लिटभ्यासस्योभयेषाम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।वचिस्वपियजादीना॑मिति सूत्रोपात्ताः,ग्रहिज्यावयी॑ति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह — वच्यादीनां ग्रह्रादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः ।यज देवपूजेत्यारभ्यटु ओ इआ गतिवृद्ध्यो॑रित्येतत्पर्यन्ता यजादयः । तदुक्तम् — ॒यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ् वदिः आयतिश्चैव यजाद्याः स्युरिमे नव॑ । इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपमिति भावः ।
विव्यथेति।'व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र पर्युदासवृत्यास्प्रत्ययसदृशस्य कृतो ग्रहणादिह इङ्त्वाभावाद्धातोः सम्प्रसारणाभावः।'वृश्चतिपृचचतिभृज्जतीनामविसेषः' इति वार्तिकम्, तद् वृश्चतिविषये भाष्यकारेण दूषितम् -ठ्यदुच्यते वृश्चतेरविशेषःऽ इत्यादि। तत्र वातिककारस्याभिप्रायमाह -वृश्चतेरिति। असति सूत्रे यद्रूपं तदेव सतीत्यभिप्रयेण वातिककारेणैतदुक्तमित्यर्थः। भाष्यकारस्याभिप्रायमाह -योगारम्भे सतीति। रेफस्य सम्प्रसारणे सत्यसति वा नास्ति विशेष इति वार्तिककारेणोक्तमित्यध्यारोप्यभाष्यकारेणोक्तमित्यर्थ। अकिदर्तमिदमिति। किति कथम्? इत्यत आह -किति हीति। अधिकारादेविति। नात्र सास्त्रीयोऽधिकारः, किं तर्हि? अपेक्षालक्षण, तेन पूर्वसूत्रे वच्यादेः सम्बन्धो नाशङ्कनीयः। योगविभागसामर्थ्याद्वा पूर्वसूत्रे तेषामसम्बन्धः। हलादिःशेषमपि बाधित्वेति। अन्यथा परत्वाद्धलादिःशेषः स्यात्। सम्प्रसारणमेव यथा स्यादिति। पुनर्विधानमुभयेपांग्रहणाद्भवति तद्वाधकबाधनार्थमिति भावः ॥