6-1-178 ङ्याः छन्दसि बहुलम् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्
ङ्यन्ताच्छन्दसि विषये नामुदात्तो भवति बहुलम्। दे॒व॒से॒नाना॑मभिभञ्जती॒नाम् (ऋ० १०.१०३.८)। ब॒ह्वी॒नां पि॒ता (ऋ० ६.७५.५)। न च भवति — न॒दीनां॑ पारे। जय॑न्तीनां म॒रुतः॑(ऋ० १०.१०३.८)॥
ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ॥