नामन्यतरस्याम्

6-1-177 नाम् अन्यतरस्याम् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् ह्रस्व

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ह्रस्वग्रहणमनुवर्तते, मतुब्ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अ॒ग्नी॒नाम्, अ॒ग्नीना॑म्। वा॒यू॒नाम्, वा॒यूना॑म्। क॒र्तृृ॒णाम् ,क॒र्तृृणा॑म्। मतुपा ह्रस्वविशेषणं किम्? भूतपूर्वेऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात् — ति॒सृ॒णां च॒त॒सृ॒णामिति। सनुट्कस्य ग्रहणं किम् ? धे॒न्वाम्। श॒क॒ट्याम्। <<उदात्तयणो हल्पूर्वात्>> ६.१.१७४ इत्ययमन्तोदात्तः। ह्रस्वादित्येव — कु॒मा॒रीणा॑म्। अन्तोदात्तादित्येव — त्रपू॑णाम्। वसू॑नाम्॥

Siddhanta Kaumudi

Up

मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

मतुबिति चेति। चच्चार्थात्सप्तम्यन्तं सम्पद्यते। अन्यथा हि साम्प्रतिक एव स्यादिति। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति, न तु तस्मिन्सत्यपि; ततस्तिसृणाम्, चतसृणामित्यत्र'न तिसृचतसृ' इति दीर्घप्रतिषेधात्साम्प्रतिक एव ह्रस्वो विद्यते इति तत्रेव स्यात्; अग्नीनाम्, वायूनामित्यादौ परत्वान्नित्यत्वाच्च दीर्घत्वे कृते ह्रस्वाभावान्न स्यात्, तस्मान्मतुपा ह्लस्वो विशेष्यते। यद्येवम्,'मतौ बह्वचो' नजिरादीनाम्ऽ,'शरादीनां च' इति येषां मतौ दीर्घत्वमुच्यते तेषां न स्यात् ? नैष दोषः; संज्ञायामिति वर्तते, ततश्चातुरर्थिक एव मतौ दीर्घत्वम्, न तु'तदस्यास्यास्मिन्' इत्यत्र; तत्र मतौ ह्रस्वान्तत्वाद्भविष्यति। एवमपि तिसृणाम्, चतसृणामित्यत्र न स्यात्, तिसृचतसृभावस्यैव तत्राभावात् ? इष्टमेवैतत्संगृहीतम्। अत्र हि'षष्टत्रिचतुर्भ्यो हलादिः' इति नित्यमेव विभक्तेरुदातत्वमिष्यते। धेन्वाम्, शकट।लमिति।'धेट इच्च' इति नुप्रत्ययान्तो धेनुशब्दोऽन्तोदातः,'शकटिशकट।लेरक्षरमक्षरं पर्यायेण' इति शकटीशब्दोऽपि पक्षेऽन्तोदातः। त्रपुशब्दो वसुशब्दश्चाद्यौदातः ॥