ह्रस्वनुड्भ्यां मतुप्

6-1-176 ह्रस्व नुड्भ्यां मतुप् अन्तः उदात्तः विभक्तिः अन्तोदात्तात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्तोदात्तादित्येव। ह्रस्वान्तादन्तोदात्ताद् नुटश्च परो मतुब् उदात्तो भवति। अ॒ग्नि॒मान्। वा॒यु॒मान्। क॒र्तृ॒मान्। ह॒र्तृ॒मान्। नुटःखल्वपि — अ॒क्ष॒ण्वता॑। शी॒र्ष॒ण्वता॑। अन्तोदात्तादित्येव — वसु॑मान् (तै० सं० १.६.६.२)। वसुशब्द आद्युदात्तः, तस्माद् मतुब् अनुदात्त एव भवति। अत्र च <<स्वरविधौ व्यञ्जनमविद्यमानवद्०>> इत्येषा परिभाषा नाश्रीयते नुड्ग्रहणात्, तेन म॒रुत्वा॑न् इत्यत्र न भवति ॥ रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्॥ आ रे॒वान्॥ त्रेश्च प्रतिषेधो वक्त व्यः॥ त्रिव॑तीर्याज्यानुवाक्या भवन्ति (काठ० सं० ११.१) इति॥

Siddhanta Kaumudi

Up

ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अक्षण्वतेति।'च्छन्दस्यपि दृश्यते' इत्यनङ्, ठनो नुट्ऽ इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति।'शीर्षञ्च्छन्दसि' इति निपातितः। वसुशब्द्र आद्यौदात इति। वसेरुप्रत्ययः,'धान्ये नित्' इत्यधिकारे। अथेहकस्मान्न भवति - मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि'मृग्रोरुतिः' इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदातः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह - अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्यौक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्तत इति कर्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम् - ठत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्ततेऽ इति। रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि रर्येर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्। त्रिवतीरिति।'च्छन्दसीरः' इति वत्वम्,'वा च्छन्दसि' इति पूर्वसवर्णदीर्घः ॥