6-1-175 न ऊङ्धात्वोः अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम् नद्यजादी उदात्तयणः हल्पूर्वात्
ऊङो धातोश्च य उदात्तयण् हल्पूर्वः, तस्मात् परा तृतीयादिर्विभक्तिर्नोदात्ता भवति। ब्र॒ह्म॒ब॒न्ध्वा॑। ब्र॒ह्म॒ब॒न्ध्वे॑। वी॒र॒ब॒न्ध्वा॑। वी॒र॒ब॒न्ध्वे॑। ऊङ् प्रत्ययस्वरेणोदात्तः। तेन सह य एकादेशः सोऽप्युदात्त इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> ८.२.४ इति विभक्तिः स्वर्यते। धातुयणः खल्वपि — स॒कृ॒ल्ल्वा॑। स॒कृ॒ल्ल्वे॑। ख॒ल॒प्वे॑। क्विबन्तस्य कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्य <<ओः सुपि>> ६.४.८३ इति यणादेशः॥
अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ॥
ऊङे धातोश्च य उदातयण् हल्पूर्व इति। अनेन पूर्वस्याः प्राप्तेरयं प्रतिषेध इति दर्शयति। तस्मात्परा तृतीयादिर्विभक्तिरिति। यद्यपि पूर्वसूत्रे'नद्यजादी' इत्यनुवर्तते न'तृतीयादिः' इति, तथाप्यत्र बाहुल्येन तृतीयादेरेव सम्भवादिधमुक्तम्। तथा हि -ऊङ्धातुयणः परा नदी तावन्न सम्भवति, नाप्यूङ्यणः शस् सम्भवति, धातुयणस्तु सम्भवति ॥