6-1-174 उदात्तयणः हल्पूर्वात् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम् नद्यजादी
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजाद्यसर्वनामस्थानविभक्तिरुदात्ता भवति। क॒र्त्री। ह॒र्त्री। प्॒रल॒वि॒त्री। प्॒रस॒वि॒त्री। क॒र्त्रा। ह॒र्त्रा। प्॒रल॒वि॒त्रा। प्॒रस॒वि॒त्रा। तृजन्ता एतेऽन्तोदात्ताः। उदात्तग्रहणं किम् ? कर्त्री॑। हर्त्री॑। कर्त्रा॑। हर्त्रा॑। तृन्नन्तोऽयमाद्युदात्तः हल्पूर्वादिति किम् ? ब॒हु॒ति॒त॒वा॑ ब्राह्मण्या॥ नकारग्रहणं कर्तव्यम्॥ वा॒क्प॒त्नी इयं कन्या॥
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ॥