6-1-173 शतुः अनुमः नद्यजादी अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम्
अन्तोदात्तादिति वर्तते। अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात् पर नद्यजादिर्वि — भक्ति रसर्वनामस्थानमुदात्ता भवति। तु॒द॒ती। नु॒द॒ती। लु॒न॒ती। पु॒न॒ती। तु॒द॒ता। नु॒द॒ता। लु॒न॒ता। पु॒न॒ता। अनुम इति किम्? तु॒दन्ती॑। नु॒दन्ती॑। अत्राप्यदुपदेशादिति लसार्वधातुकानुदात्तत्वे ६.१.१८६ एकादेशः, तस्य <<एकादेश उदात्तेनोदात्तः>> ८.२.५ इत्युदात्तत्वम्, तस्य पूर्वत्रासिद्धत्वं ८.२.१ नेष्यत इति शत्रन्तमन्तोदात्तं भवति। नद्यजादी इति किम् ? तु॒दद्भ्या॑म्। नु॒दद्भ्या॑म्। तु॒दद्भिः॑। अन्तोदात्तादित्येव — दद॑ती। दध॑तः। <<अभ्यस्तानामादिः>> ६.१.१८९ इत्याद्युदात्तावेतौ॥ बृहन्महतोरुपसंख्यानम्॥ बृ॒ह॒ती। म॒ह॒ती। बृ॒ह॒ता। म॒ह॒ता॥
अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः <{SK3673}> इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक <{SK3730}> इति निघातः ॥
तुदती, नुदतीति। तुदादित्वाच्छः, ठाच्छीनद्योर्नुम्ऽ विकल्पितः। तत्र नुमभावपक्षे उदाहरणम्, नुम्पक्षे प्रत्युदाहरणम्। तुदन्तीति।'श्नाभ्यस्तयोरात' इत्याकारलोपः। अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदातम्। तत्रेत्यादिना प्रत्युदाहरणस्य द्व्यङ्गविकलतां परिहरति -तत्र पूर्वत्रासिद्धमिति नेष्यतीति। अत्र च ज्ञापकमयमेवानुम इति प्रतिषेधः, न हि किञ्चिदेकादेशस्वरमन्तरेण शत्रन्तं सनुम्कमन्तोदातमिस्ति। बुहन्महतोरुपसंख्यानमिति। शतृवद्भावादेव सिद्धे नियमार्थमिदम् -पृष्टदादीनां मा भूदिति।'गौरादिषु बृहन्महतोः पाठो' नर्थकःऽ इति स्त्रीप्रकरण एवोक्तम् ॥ उदातयणो कहल्पूर्वात् ॥ ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इति प्राप्ते वचनम्। वहुतितवा ब्राह्मण्येति। स्त्रीलिङ्गोपादानं नाभावनिवत्यर्थम्।'तनोतेर्डौः सन्वच्च' इति,'चालनी तितौः पुमान्' , ततो बहुव्रीहिः,'बहोर्नञ्वदुतरपदभूम्नि' इत्युतरपदान्तोदातः, तत्र ठुदातस्वरितयोःऽ इति विभक्तेः स्वरितत्वम् । नकारग्रहणं च कर्तव्यमिति। उदातस्थाने यो नकारस्ततोऽपि परस्या नद्या उदातत्वं वक्तव्यमित्यर्थः। तदर्थं केचिद् ठुदातहलो हल्पूर्वात्ऽ इति पठनीयमिति मन्यन्ते। वाक्पत्नीति। तत्पुरुषः।'पत्यावैश्वर्य्ये' इति पूर्वपदप्रकृतिस्वरस्य'न भूवाक्चिद्दिधिषु' इति प्रतिषेधात्समासान्तोदातत्वे'विभाषा सपूर्वस्य' इति नकारः ॥