ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः

6-1-171 ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऊठ् इदम् पदादि अप् पुम् रै दिव् इत्येतेभ्योऽसर्वनामस्थानविभक्ति रुदात्ता भवति। ऊठ् — प्र॒ष्ठा॒ैहः। प्॒रष्ठा॒ैहा। ऊठ्युपधाग्रहणं कर्तव्यम्, इह मा भूत् — अ॒क्ष॒द्युवा॑, अ॒क्ष॒द्युवे॑। इदम् — आ॒भ्याम्। ए॒भिः। अन्तोदात्तादित्यधिकारादन्वादेशे न भवति। अथो आ॒भ्यां॒ निपुणमधीतमिति। पदादयः <<पद्दन्नोमास्०>> ६.१.६३ इत्येवमादयो निश्पर्यन्ता इह गृह्यन्ते। नि प॒दश्च॒तुरो॑ जहि। या द॒तो धाव॑ते (तै० सं० २.५.१.७)। असन्प्रभृतिभ्यो विभक्ति रनुदात्तैव भवति। ग्री॒वायां॑ ब॒द्धो अ॑पि क॒क्ष आ॒सनि॑ (ऋ० ४.४०.४)। मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् (ऋ० १०.६८.८)। अप् — अ॒पः प॑श्य। अ॒द्भिः। अ॒द्भ्यः। पुम् — पुं॒सः। पु॒म्भ्याम्। पु॒म्भयः। पुं॒सा। पुं॒से। रै — रा॒यः प॑श्य। रा॒भ्याम्। रा॒भिः। दिव् — दि॒वः पश्य। दि॒वा। दि॒वे॥

Siddhanta Kaumudi

Up

एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ।<!ऊठ्युपधाग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ <{SK350}> इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् <{SK228}> इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रष्ठौह इति।'च्छन्दसि सहः' ,'वहश्च' इति ण्विः। वाह ऊठि ठेत्येधत्यूठसुऽ इति वृद्धिः। ऊठयुपधाग्रहणमिति। उपधाभूत ऊठ गृह्यते, न त्वन्त्य इत्यर्थः। पञ्चमीनिर्द्देशादन्त्यस्यैव ग्रहणे प्राप्ते वचनम्। अन्तोदातादित्यधिकारादन्वादेशे न भवतीति। अत एव हेतोः'सावेकाचः' इत्यनेनापि न भवति। यदि स्यात्, इहान्तोदाताधिकारो व्यर्थः स्यात्। ननु च यदीमे नानुशसो अभ्यवर्षादिति शसोऽन्वादेशेन मा भूदिति प्रयोजनम्, ठेकाचःऽ इत्यधिकारादेव सिद्धम्, तथा च तदस्मै तथ्य तदस्य प्रियं प्रेणा तदेषामित्यादि सर्वानुदातं पदमधीयते। पदादयो निश्पर्यन्ता गृह्यन्त इति।'पदन्नोमास्' इति सूत्रे निर्द्दिष्टाः, तत्र एकाच इत्यनुवृतेनिशः परे न गृह्यन्ते। यदा त्वल्लोपे कृते एकाचो भवन्ति, तदोदातनिवृत्तिस्वरेण विभक्तेरुदातत्वं सिद्धम्। येऽप्याद्यौदातानां स्थाने विधीयन्ते आदेशास्ते तत्रैवान्तोदाता निपात्यन्ते। वृतावप्येतदेवोक्तं द्रष्टव्यम्। आसनीति। आस्यशब्दस्यासनादेशः। यत्रैकाचस्तेषां शसर्थं ग्रहणम् ॥