6-1-170 अञ्चेः छन्दसि असर्वनामस्थानम् अन्तः उदात्तः विभक्तिः अन्तोदात्तात्
अञ्चे परासर्वनामस्थानविभक्ति रुदात्ता भवति छन्दसि विषये। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ० १.८४.१३)। <<चौ>> ६.१.२२२ इति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादिरिति वर्तमाने शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इहापि यथा स्यात् — प्॒रती॒चो बा॒हून् प्रति॑ भङ्ध्येषाम् (ऋ० १०.८७.४) इति॥
अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ॥
दधीचेति। दध्यञ्चतीति ठृत्विक्ऽ इत्यादिना क्विन्, अनुनासिकलोपः, ठचःऽ इत्यकारलोपः,'चौ' इति दीर्घत्वम्। शसोऽपि परिग्रहर्थमिति। शसादिग्रहणं तु न कृतम्, नपुंसके शसि मा भूत्, सुटि च यथा स्यादिति ॥