चतुरः शसि

6-1-167 चतुरः शसि अन्तः उदात्तः

Kashika

Up

index: 6.1.167 sutra: चतुरः शसि


चतुरः शसि परतोऽन्त उदात्तो भवति। चतुरः पश्य। चतस्रादेशे आद्युदात्तनिपातनाद् यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति चतस्रः पश्य इति।

Siddhanta Kaumudi

Up

index: 6.1.167 sutra: चतुरः शसि


चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-<{SK299}> इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ।

Padamanjari

Up

index: 6.1.167 sutra: चतुरः शसि


अनुकरणत्वेनार्थपरत्वाभावादेकवचनम्। इह चतस्रः पश्यैत्यत्र चतस्रादेशे कृते स्थानिवद्भावादयं स्वरः प्राप्नोति? तत्राह - चतस्रादेश इति। स्थानिवद्भावादेवाद्यौदातत्वे सिद्धे पुनराद्यौदातत्वनिपातनमस्य स्वरस्य बाधनार्थमिति। भावः। यथैव तर्हि निपातनस्वरः शस्स्वरंक बाधते, एवम्'षट्त्रिचतुर्भ्यो हलादिः' इत्येतमपि विभक्तिस्वरं बाधेत - चतसृणामिति? ज्ञापकात्सिद्धम्, यदयम्'षट्त्रिचतुर्भ्यो हलादिः' इति हलादिग्रहणं करोति, तज्ज्ञापयति -'न निपातनस्वरो विभक्तिस्वरं बाधते' इति। तद्धि तत्र न कर्तव्यम्, कथम् ? सर्वेषामपि बहुवचनविषयत्वाद् द्विवचनैकवचने न सम्भवतः। न चोपसमस्ते सम्भवः; विहितविशेषणाश्रयणात्। तत्र षड्भ्यस्तावत् जश्शसोर्लुका भवतिव्यम्। अन्याः सर्वा हलादयो विभक्त्यः। स्त्रीशब्दऽपि जसि न भवितयम्; असर्वनामस्थानमित्यधिकारात्, शसि भवितव्यम् ठेकादेश उदातेनोदातःऽ इति, अन्या हलादयः। तिसृशब्देऽपि जसि'तिसृभ्यो जसः' इति भवितव्यम्, शस्यपि ठुदातयणो हलपूर्वात्ऽ इति, अन्या हलादयः। चतुर्-शब्देऽपि जस्यसर्वनामस्थान इति निषेधः, शसि'चतुरः शशि' इत्ययमेव भवति, अन्यास्तु हलादयः। तदेतद्धलादिग्रहणं चतस्रः पश्येत्यत्र मा भूदित्येतदर्थमेव कृतम्। यदि च निपातनस्वरेण विभक्तिस्वरो बाध्येत हलादिग्रहणमनर्थकं स्यात्। चतस्रः पश्येत्यत्र निपातनस्वरेणैव बाधितत्वाद् विभक्तिस्वरस्याप्रसङ्गात् किं तन्निवृत्यर्थेन हलादिग्रहणेन! तत्क्रियमाणम् - विभक्तिस्वरस्य बलीयस्त्वं ज्ञापयतीति चतसृणामित्यत्र विभक्तिस्वरः सिद्धः। यणादेशस्य चेति। ठचि र ऋतःऽ इति रादेशस्यास्मात्स्वरात्पूर्वं परत्वात्कृतस्य। एतदुक्तं भवति - परत्वादादेशे कृते ऋकारस्य तावन्न भवति, तशब्दाकारस्यापि न भवति; रादेशस्य स्थानिवद्भावादिति। न च स्वरविधौ स्थानिवत्वनिषेधः,'स्वरदीर्घयलोपेषु लोपजादेश एव न स्थानिवत्' इति वचनात् ॥