6-1-160 उञ्छादीनां च अन्तः उदात्तः
उञ्छ इत्येवमादीनामन्त उदात्तो भवति। उ॒ञ्छः। म्ले॒च्छः। ज॒ञ्जः। ज॒ल्पः। एते घञन्ता इति ञित्स्वरः प्राप्तः। ज॒पः व्य॒ध इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः। केचित् तु व॒ध इति पठन्ति। यु॒गः। युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगोऽन्यत्र हि योग॑ एव भवति। ग॒रो दूष्ये (ग० सू० १६५) अबन्तः। गरशब्दोऽबन्तः स दूष्य एवान्तोदात्तः। ग॒रो विषम्। अन्यत्राद्युदात्त एव। वेगवेदवेष्टबन्धाः करणे (ग० सू० १६६)। <<हलश्च>> ३.३.१२१ इति घञन्ता एते करणेऽन्तोदात्ता भवन्ति। भाव आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि (ग० सू० १६७)। उपसमस्तार्थमेतत्। प॒रि॒ष्टुत्। सं॒युत्। प॒रि॒द्रुत्। व॒र्त॒निः स्तोत्रे (ग० सू० १६८)। स्तोत्रं साम। तत्स्थो वर्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे द॒रः (ग० सू० १६९) श्वभे्रऽभिधेये दरशब्दोऽन्तोदात्तोऽन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम् (ग० सू० १७०)। अन्तोदात्तौ, अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र (ग० सू० १७१)। केचित् तु भावगर्हायामित्यत्राप्यनुवर्तयन्ति। भक्षमन्थभोगदेहाः (ग० सू० १७२ )। एते घञन्ताः। भक्षिर्ण्यन्तोऽपि घञन्त एव, <<एरच्>> ३.३.५६ अण्यन्तानामिति वचनात्॥
अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ॥
ठुच्छि उच्छेऽ,'म्लेच्छ अव्यक्ते शब्दे' ।'जजि युद्धे' , अत्र कुत्वाभावो निपातनात्,'जल्प व्यक्तायां वाचि' 'व्यध ताडने' ,'व्यधजपोरनुपसर्गे' इत्यप्। वध इति।'हनश्च वधः' इत्यप्। कालविशेष इति। कतद्वापरादौ।'घृ गृ निगरणे' , ठृदोरप्ऽ। विषमित्यनेन दूष्यशब्दस्य विशेष वृत्तिं दर्शयति।'विद ज्ञाने' , ठोविजी भयचलनयोःऽ,'वेष्ट वेष्टने' ,'बन्ध बन्धने' ,'ष्टुअञ् स्तुतौ' ,'यु मिश्रणे' ,'द्रु गतौ' । उपसमस्तार्थमेतदिति। केवलानां धातूनां क्विबन्तानां धातुस्वरेणैव सिद्धत्वात्। परिष्टुअदिति। सम्पदादित्वात्क्विप्, तेन प्रादिसमासः,'पूर्वपदात्' इति षत्वम्। अव्ययपूर्वपदप्रकृतिस्वरे प्राप्तेऽन्तोदातत्वम्। सोपपदातु क्विपि कृत्स्वरेणैव चसिद्धम्। अन्यत्र मध्योदात इति। स हि'वृतु वर्तने' इत्यस्मादिनिप्रत्ययेन व्युत्पाद्यते।'दृ विदारणे' । साम्बतापौ भावगर्हायामिति। साम्बो भिक्षते, अम्बया सह भिक्षणं गर्हितम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरस्यापवादः। तापो दस्यूनाम्। धार्मिकेषु दस्युकर्तृकस्तापो गर्हितः।'कर्षात्वतः' इत्येव सिद्धे भावगर्हाया अन्यात्राऽऽद्यौदातार्थं वचनम्। उतमशश्वतमाविति। तमबन्तावेतौ। द्रव्यप्रकर्षविवक्षायामामभावः, पित्वादनुदाते प्राप्ते पाठः। सर्वत्रेति। भावगर्हायाम्, अन्यत्र च। च्छन्दसि, भाषायां चेत्यन्ये।'भक्ष अदने' चुरादिः,'मन्थ विलोडने' ,'भुज कौटिल्ये' ,'दिह उपचये' । एरजण्यन्तानामिति। ये तु अनार्षमेतदचनमित्याहुः, तेषां भक्षशब्दस्य पाठे प्रयोजनं मृग्यम् ॥