6-1-161 अनुदात्तस्य च यत्र उदात्तलोपः अन्तः उदात्तः
उदात्त इति वर्तते। यस्मिन्ननुदात्ते परत उदात्तो लुप्यते तस्यानुदात्तस्यादिरुदात्तो भवति। कु॒मा॒र्र इ॒ कु॒मा॒री। कुमारशब्दोऽन्तोदात्तस्तस्य ङीप्यनुदात्त उदात्तो लुप्यते। अनुदात्तो ङीब् उदात्तः। <<भस्य टेर्लोपः>> ७.१.८८। प॒थः प॒था। प॒थे। पथिन्शब्दोऽन्तोदात्तः। <<कुमुदनडवेतसेभ्यो ड्मतुप्>> ४.२.८७। कु॒मु॒द्वान्। न॒ड्वान्। वे॒त॒स्वान्। कुमुदादयोऽन्तोदात्ताः। ड्मतुबनुदात्तः। अनुदात्तस्येति किम्? प्रासङ्गं वहति प्रा॒स॒ङ्ग्यः॑। प्रासङ्गशब्दस्थाथादिस्वरेणान्तोदात्तः ६.२.१४४। तस्य यति <<तित् स्वरितम्>> ६.१.१८५ इति स्वरित उदात्तो लुप्यते। नैतदस्ति, स्वरिते हि विधीयमाने परिशिष्टमनुदात्तम् तत् कुत उदात्तलोपः? तदेतदनुदात्तग्रहणमादेरनुदात्तस्योदात्तार्थम्। अन्त इति हि प्रकृतत्वादन्तस्य स्यात्। मा हि धु॒क्षाता॑म्। मा हि धु॒क्षाथा॑म्। यत्रेति किम् ? भा॒र्ग॒वः, भा॒र्ग॒वौ, भृग॑वः। प्राक् सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक्। उदात्तग्रहणं किम् ? बैदी॑। और्वी॑॥
यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ॥
कुमारशब्दोऽन्तोदात इति। फिषित्यनेन। अन्यत्रापि प्रातिपदिकस्यान्तोदातत्वमनेनैव द्रष्टव्यम्। पथिन्शब्दोऽन्तोदात इति।'पतेस्थ च' इतीन्प्रत्ययान्तत्वात्। कुमुदादयोऽन्तोदाता इति। कुमुदशब्दो मूलविभुजादित्वात्कप्रत्ययान्तः, नडशब्दोऽव्युत्पन्नः,'वि गत्यादिषु' अस्मादसच्, तुडागमश्च। वेतसश्चित्स्वरेणान्तोदातः। प्रासङ्ग्य इति। प्रासज्यत इति प्रासङ्गः, कर्मणि घञन्तः,'तद्वहति' इति'प्राग्घिताद्यत्' इति यत्। नैतदस्तीति। उदातो लुप्यत इति। यतस्य प्रतिषेधः। कथं नैतदस्ति ? इत्याह -स्वरिते हीति।'प्रागेव पदसंज्ञायाः स्वरविधिसमकालमेव शेषनिघातो भविष्यति' इत्युक्तं पुरस्तात्। तत् कुत उदातलोप इति। न कुत'सिचिदित्यर्थः। तदेतदित्यादि। यस्मादेवमनुदातग्रहणस्य व्यावर्त्य न सम्भवति, तस्मादेतदनुदातग्रहणमादेरनुदातार्थम् । अथासत्यनुदातग्रहणे कस्य स्यात्? इत्यत आह -अन्त इति। मा हि धुक्षातामिति। दुहेर्माङ् लुङित्मनेपदम्, आतामाथामौ, च्लेः क्सः। ठदुपदेशात्ऽ इति लसार्वधातुकानुदातत्वम्, क्सः प्रत्ययस्वरेणान्तोदातः,'क्सस्याचि' इत्यकारलोपः। माङ्ः प्रयोगोऽडागमनिवृत्यर्थः, अटि हि सति पदमाद्यौदातं भवति, हिशब्दप्रयोगः'हि च' इति निघातप्रतिषेधार्थः। अत्रासत्यनुदातग्रहणे आतामाथामोर्द्वितीयस्याच उदातः स्यात्, अन्ताधिकारात्; सति त्वस्मिन्नादेर्भवति। इदं दु वक्तव्यम्,'यत्रोदातलोपः' इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः, न हि तदुदातलोपस्य निमितमिति ? उच्यते; आदेरपि तर्हि न प्राप्नोति, तस्यानुदातलोपं प्रत्यनिमितत्वात्,'क्सस्याचि' इत्यजादौ प्रत्यये विधानात्। तस्माद्यत्र प्रत्यय उदातलोपस्तत्सम्बन्धिनोऽनुदातस्योदातो भवतीति सूत्रार्थेऽन्ताधिकारादन्त्यस्य प्रसङ्ग। यदि तु निमितत्वानादरेण यत्रानुदाते परतः उदातलोपः, तस्योदातो भवतीति सूत्रार्थः, तदा नान्त्यस्य प्रसङ्गः। भृगव इति। ठत्रिभृगुकुत्सऽ इत्यादिना बहुषु लुक्। तत्र बहुष्वित्यर्थग्रहणम्, न बहुवचनस्य। वैदीति। विदाद्यञन्तात्'शार्ङ्गरवाद्यञो ङीन्' ॥