कारस्करो वृक्षः

6-1-156 कारस्करः वृक्षः संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कारस्कर इति सुट् निपात्यते वृक्षश्चेद् भवति। कारं करोतीति <<दिवाविभानिशाप्रभाभास्कारान्ता॰>> ३.२.२१ इति टप्रत्ययः। कारस्करो वृक्षः। वृक्ष इति किम् ? कारकरः। केचिदिदं सूत्रं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्ष इति पठन्ति॥

Siddhanta Kaumudi

Up

कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पारस्करप्रभृतिष्वेवेति। नेदं सूत्रमधीयत इत्यर्थः ॥