कास्तीराजस्तुन्दे नगरे

6-1-155 कास्तीराजस्तुन्दे नगरे संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्येति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यमेतयोः। कास्तीरं नाम नगरम्। अजस्तुन्दं नाम नगरम्। नगर इति किम् ? कातीरम्। अजतुन्दम्॥

Siddhanta Kaumudi

Up

ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृतौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। ठीषदर्थे चऽ इति काभावः ॥