मस्करमस्करिणौ वेणुपरिव्राजकयोः

6-1-154 मस्करमस्करिणौ वेणुपरिव्राजकयोः संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मस्कर मस्करिन् इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणावभिधेये सुट् निपात्यते, परिव्राजके त्विनिरपि। मस्करो वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोरिति किम् ? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङ्युपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्ति, माङश्च ह्रस्वत्वं सुट् च। मा क्रियते येन प्रतिषिध्यते, स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थमन्यत्रापि भवति — मस्करो दण्ड इति। परिव्राजकेऽपि माङ्युपपदे करोतेस्ताच्छील्य इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथैव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राजक उच्यते। स ह्येवमाह — मा कुरूत कर्माणि, शान्तिर्वः श्रेयसीति॥

Siddhanta Kaumudi

Up

मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मस्करमस्करिणौ वेणुपरिव्राजकयोः>> - मस्करमस्करिणौ । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः ।

Padamanjari

Up

परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पतेरदर्शनाद्वा नात्र स्पष्ट्ंअ निपात्यम्, तद्दर्शयति - केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमितिकानि, तानि हि ममुक्षोरपि कर्तव्यानि। यथाऽऽहुः - मोक्षार्थी न प्रवर्तेत ततः काम्यनिपिद्धयोः। नित्यनैमितिके कुर्यात् प्रत्यवायनिवृतये ॥ इति । तानि कर्माण्यपवदितुं प्रतिषेद्धुअं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्तव्यानीत्यर्थः। कर्मणि लुङ् ॥