6-1-153 प्रस्कण्वहरिश्चन्द्रौ ऋषी संहितायाम् सुट्
प्रस्कण्वो हरिश्चन्द्र इति सुट् निपात्यत ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणममन्त्रार्थम्। ऋषी इति किम् ? प्रकण्वो देशः। हरिचन्द्रो माणवकः॥
हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥
<<प्रस्कण्वहरिश्चन्द्रावृषी>> - प्रस्कण्वहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते ।