प्रतिष्कशश्च कशेः

6-1-152 प्रतिष्कशः च कशेः संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<कश गतिशासनयोः>> इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्यैव षत्वम्। ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कश इत्यभिधीयते। कशेरिति किम् ? प्रतिगतः कशां प्रतिकशोऽश्वः। अत्र यद्यपि कशेरेव कशाशब्दस्तथापि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गाद् न भवति॥

Siddhanta Kaumudi

Up

कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रतिष्कशश्च कशेः>> - प्रतिष्कशश्च कशेः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गभिं प्रत्येव प्रतिरुपसर्गः, नतु कशिं प्रति,यत्क्रियायुक्ताः प्रादयः॑ इति नियमादित्यर्थः ।

Padamanjari

Up

अत्र यद्यपीत्यादि। कशेरिति। यद्धातोरुपादानं तस्य नान्यत्प्रयोजनमिति भावः॥