6-1-151 ह्रस्वात् चन्द्रोत्तरपदे मन्त्रे संहितायाम् सुट्
चन्द्रशब्द उत्तरपदे ह्रस्वात् परः सुडागमो भवति मन्त्रविषये। सुश्च॑न्द्॒र (ऋ॰ ५.६.५) युष्मान्। ह्रस्वादिति किम् ? सूर्याचन्द्र॒मसा॑विव (ऋ॰ ५.५१.१५)। मन्त्र इति किम् ? सुचन्द्रा पौर्णमासी। उत्तरपदं समास एव भवतीति प्रसिद्धम्, तत इह न भवति — शु॒क्रम॑सि च॒न्द्रम॑सि (मा॰ सं॰ ४.१८)॥
ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । हरिश्चन्द्रो मरुद्गणः (हरि॑श्चन्द्रो म॒रुद्ग॑णः) । सुश्चन्द्र दस्म (सुश्च॑न्द्र दस्म) ॥
सुडागमो भवतीति। पूर्वं कात्पूर्वग्रहणादभक्तः सुडित्युक्तम्, इह तु कात्पूर्वत्वं न सम्भवति, आगमलिङ्गं च टित्वमस्तीत्यागम एव सुडुक्त इति भावः। स च भवन् ठुभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान्ऽ इति चन्द्रशब्दस्यैव भवति, सूर्याचन्द्रमसाविति। द्वन्द्वः,'देवताद्वन्द्वे च' इत्यानङ्। उतरपदमित्यादि। स्वनिकायप्रसिद्धिरेवेषा ॥