6-1-150 विष्किरः शकुनिर्विकिरो वा संहितायाम् सुट्
विष्किर इति किरतेर्विपूर्वस्य <<इगुपधज्ञाप्रीकिरः कः>> ३.१.१३५ इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर्भवति।
सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते।
विष्किरो वा शकुनाविति वा ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्॥
पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥
<<कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)>> - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः ।
विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा'विष्किरः शकुनौ वा' इत्येतावत् सूत्रम् ॥