6-1-147 आश्चर्यम् अनित्ये संहितायाम् सुट्
index: 6.1.147 sutra: आश्चर्यमनित्ये
अनित्यतया विषयभूतया अद्भुतत्वम् इह उपलक्ष्यते, तस्मिन्नाचर्यं निपात्यते। चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात् सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सोऽधीयीत। चित्रमद्भुतम् इत्यर्थः। अनित्ये इति किम्? आचर्यं कर्म शोभनम्।
index: 6.1.147 sutra: आश्चर्यमनित्ये
अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥
index: 6.1.147 sutra: आश्चर्यमनित्ये
आश्चर्यमनित्ये - आश्चर्यमनित्ये । अद्भुते गम्ये आङ्पूर्वकस्य चरेः सुट् । 'चरेराङि चाऽगुरौ' इति यत् । अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह — अद्भुते सुडिति । तेन आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत् ।
index: 6.1.147 sutra: आश्चर्यमनित्ये
यद्याश्चर्यमनित्ये निपात्यते, घटादावतिप्रसङ्गः ? इत्यत आह -अनित्यतयेत्यादि। लोके यदनुचितमदृष्टपूर्वमुपलभ्यते, तदनित्यातया व्याप्तं कादाचित्कत्वम्, अतोऽनित्यता विषयभूता भवति। तथा विषयभूतया अद्भूतत्वं पिस्मयहेतुत्वमुपलक्ष्यते। उदाहरणे ठनवकॢप्त्यमर्षयोरकिंवृतेऽपिऽ इत्यनवकॢप्तावसम्भावनायां लिङ्। रुग्णस्य मन्दकर्णस्य चाविशिष्टे कालादौ भोजनमध्ययनं चादृष्टपूर्वं दृश्यमानमद्भूतं भवतीति। आश्चर्यमिति।'चरेराङ् चागुरिउ' इति यन्। आचर्यमनुष्ठेयमित्यर्थः ॥