आस्पदं प्रतिष्ठायाम्

6-1-146 आस्पदं प्रतिष्ठायाम् संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आत्मयापनाय स्थानं प्रतिष्ठा, तस्यामास्पदमिति सुट् निपात्यते। आस्पदमनेन लब्धम्। प्रतिष्ठायामिति किम् ? आ पदात् आपदम्॥

Siddhanta Kaumudi

Up

आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आस्पदं प्रतिष्ठायाम्>> - आस्पदं प्रतिष्ठायाम् । आत्मेति । आत्मयापनं=शरीरसंरक्षणं, तदर्थं यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः । आपदादापदमिति । आ पदादिति विग्रहे अव्ययीभावे आपदमिति भावतीत्यर्थः ।आपदापद॑मिति पाठे तु-आपदमित्यस्य आपदित्यर्थ इत्यर्थः ।

Padamanjari

Up

आत्मयापनायेति। प्राणधारणमुआत्मयापनम्, तदर्थ यत्स्थानम्, सा प्रतिष्ठा। आस्पदमिति। आङ्पूर्वात्पदेः पूर्ववदधिकरणे घः, लोकाश्रयत्वादस्मादेव निपातनाद्वा नपुंसकलिङ्गता, आपदमित्यव्ययीभावसमासः ॥