गोष्पदं सेवितासेवितप्रमाणेषु

6-1-145 गोष्पदं सेवितासेवितप्रमाणेषु संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोष्पदमिति सुट् निपात्यते, तस्य च षत्वं सेवितेऽसेविते प्रमाणे च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे, स गोभिः सेवितो देशो गोष्पद इत्युच्यते। असेविते — अगोष्पदान्यरण्यानि। असेविते। गोष्पदशब्दो न संभवतीत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं नार्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविष्यति ? सत्यमेतत्, यत्र तु सेवितप्रसङ्गोऽस्ति तत्रैव स्यादगोष्पदमिति, यत्र त्वत्यन्तासंभव एव तत्र न स्याद् — अगोष्पदान्यरण्यानीति। असेवितग्रहणात् तत्रापि भवति। यानि हि महान्त्यरण्यानि येषु गवामत्यन्तासंभवस्तान्येवमुच्यन्ते। प्रमाणे — गोष्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयते। किं तर्हि? क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेष्विति किम्? गोः पदं गोपदम्॥

Siddhanta Kaumudi

Up

सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विष्किरः शकुनौ (विकरो) वा>> - विष्किरः । विकिरतीति विकारः । 'कृ विक्षेपे'इगुपधज्ञे॑ति कः । शकुनौ गम्ये सुड्वा, 'परिनिविभ्यः' इति षत्वम् ।नगौकोवाजिविकिरविविष्करपतत्रयः॑ इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थेविष्किरः शकुनौ विकिरो वे॑ति सूत्रपाठः । तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हिविष्किरः शकुनौ वे॑ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापिविकिपरं वैआदेविक॑मित्यत्र दर्शनादिति भावः ।

Padamanjari

Up