अपरस्पराः क्रियासातत्ये

6-1-144 अपरस्पराः क्रियासातत्ये संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्था गच्छन्ति। सन्ततमविच्छेदेन गच्छन्तीत्यर्थः। क्रियासातत्य इति किम् ? अपरपराः सार्था गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः। नात्र गमनस्य सातत्यं प्रबन्धो विवक्षितः। किमिदं सातत्यमिति ? सततस्य भावः सातत्यम्। कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते।

लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि।

समो वा हितततयोर्मांसस्य पचि युड्घञोः॥

Siddhanta Kaumudi

Up

सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपरस्पराः क्रियासातत्ये>> - अपरस्पराः । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्वकमुदाहरति — अगोष्पदानीति । गवां सञ्चारो यत्र नैव संभवति तत्रापि सुडिति भावः ।

Padamanjari

Up